|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.251. अध्यायः 251
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण मुनिगणान्प्रति श्रीकृष्णस्य वंशानुक्रमवर्णनपूर्वकं गुणगणानुवर्णनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
name="anuzAsana-13-251-1x">ऋषय ऊचुः।
पिनाकिन्भगनेत्रघ्न सर्वलोकनमस्कृत।
महात्म्यं वासुदेवस्य श्रोतुमिच्छाम शङ्कर॥ 13-251-1(91363)
ईश्वर उवाच। 13-251-2x(7680)
पितामहादपि वरः शाश्वतः पुरुषो हरिः।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः॥ 13-251-2(91364)
दशबाहुर्महातेजा देवतारिनिषूदनः।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः॥ 13-251-3(91365)
ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुराऽसुराः॥ 13-251-4(91366)
ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः॥ 13-251-5(91367)
सोस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च॥ 13-251-6(91368)
स हि देववरः साक्षाद्देवनाथः परन्तपः।
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः॥ 13-251-7(91369)
परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः।
न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन॥ 13-251-8(91370)
सनातनो वै मधुहा गोविन्द इति विश्रुतः।
स सर्वान्पार्तिवान्सङ्ख्ये घातयिष्यति मानदः॥ 13-251-9(91371)
सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः।
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः॥ 13-251-10(91372)
भुवने देवकार्याणि कर्तुं नायकवर्जिताः।
नायकः सर्वभूतानां सर्वदेवनमस्कृतः॥ 13-251-11(91373)
एतस्य देवनाथस्य देवकार्यपरस्य च।
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च॥ 13-251-12(91374)
ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः।
शर्वः सुखं संश्रितश्च् शरीरे सुखसंस्थितः॥ 13-251-13(91375)
सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः॥ 13-251-14(91376)
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वज।
उत्तमेन स शीलेन दमेन च शमेन च॥ 13-251-15(91377)
पराक्रमेण वीर्येण वपुषा दर्शनेन च।
आरोहेणि प्रमाणेन धैर्येणार्जवसम्पदा॥ 13-251-16(91378)
आनृशंस्येन रूपेण बलेन न समन्वितः।
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः॥ 13-251-17(91379)
योगमायः सहस्राक्षो निरपायो महामनाः।
वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः॥ 13-251-18(91380)
क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः।
भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः॥ 13-251-19(91381)
शरण्यः सर्वभूतानां दीनानां पालने रतः।
श्रुतवानर्थसम्पन्नः सर्वभूतनमस्कृतः॥ 13-251-20(91382)
समाश्रितानां वरदः शत्रूणामपि धर्मवित्।
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः॥ 13-251-21(91383)
भवार्थमिह देवानां बुद्ध्या परमया युतः।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते॥ 13-251-22(91384)
समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः।
अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः॥ 13-251-23(91385)
अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो महान्॥ 13-251-24(91386)
तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः॥ 13-251-25(91387)
दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति॥ 13-251-26(91388)
बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति।
नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः॥ 13-251-27(91389)
यदुस्तस्मान्महासत्वः क्रोष्टा तस्माद्भविष्यति।
क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति॥ 13-251-28(91390)
वृजिनीवतश्च भविता उषङ्गुरपराजितः।
उषङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा।
तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति॥ 13-251-29(91391)
तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम्।
यज्वनां सुविशुद्धानां वंशे ब्राह्मणसम्मते॥ 13-251-30(91392)
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः।
स्ववंशविस्तरकरं जनयिष्यति मानदः।
वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम्॥ 13-251-31(91393)
तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति॥
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः। 13-251-32(91394)
राज्ञो मागधसंरुद्धान्मोक्षयिष्यति यादवः॥ 13-251-33(91395)
जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे।
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान्॥ 13-251-34(91396)
पृथिव्यामप्रतिहतो वीर्येण च भविष्यति।
विक्रमेण च सम्पन्नः सर्वपार्थिवपार्थिवः॥ 13-251-35(91397)
शूरसेनेषु भूत्वा स द्वारकायां वसन्प्रभुः।
पालयिष्यति गां देवीं विजित्य नयवित्सदा॥ 13-251-36(91398)
तं भवन्तः समासाद्य वाङ्भाल्यैरर्हणैर्वरैः।
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम्॥ 13-251-37(91399)
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम्।
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान्॥ 13-251-38(91400)
दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा।
पितामहो वा देवेश इति वित्त तपोधनाः॥ 13-251-39(91401)
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति।
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति॥ 13-251-40(91402)
यश्च तं मानवे लोके संश्रयिष्यति केशवम्।
तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति॥ 13-251-41(91403)
धर्माणां देशिकः साक्षात्स भविष्यति धऱ्मिभाक्।
धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः॥ 13-251-42(91404)
धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ।
सहि देवो महातेजाः प्रजाहितचिकीर्षया॥ 13-251-43(91405)
धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह।
ताः सृष्टास्तेन विभुना पर्वते गन्धमादने॥ 13-251-44(91406)
सनत्कुमारप्रमुखास्तिष्ठन्ति तपसाऽन्विताः।
तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः॥ 13-251-45(91407)
दिवि श्रेष्ठो हि भगवान्हरिर्नारायणः प्रभुः।
वन्दितो हि स वन्देत मानितो मानयीत च।
अर्हितश्चार्हयेन्नित्यं पूजितः प्रतिपूजयेत्॥ 13-251-46(91408)
दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत्।
अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः॥ 13-251-47(91409)
एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम्।
आदिदेवस्य महतः सज्जनाचरितं सदा॥ 13-251-48(91410)
भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः।
अभयेनानुरूपेणि युज्यन्ते तमनुव्रताः॥ 13-251-49(91411)
कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा।
यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः॥ 13-251-50(91412)
एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः।
तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः॥ 13-251-51(91413)
महावराहं तं देवं सर्वलोकपितामहम्।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम्॥ 13-251-52(91414)
तत्र च त्रितयं दृष्टं भविष्यति न संशयः।
समस्ता हि वयं देवास्तस्य देहे वसामहे॥ 13-251-53(91415)
तस्य चैवाग्रजो भ्राता सिताद्रिनिचयप्रभः।
हली बल इति ख्यातो भविष्यति धराधरः॥ 13-251-54(91416)
त्रिशिरास्तस्य दिव्यश्च सातकुम्भमयो द्रुमः।
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः॥ 13-251-55(91417)
शिरो नागैर्महाभोगैः परिकीर्णं महात्मभिः।
भविष्यति महाबाहोः सर्वलोकेश्वरस्य च॥ 13-251-56(91418)
चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह।
अनन्तश्च स अवोक्तो भगवान्हरिरव्ययः॥ 13-251-57(91419)
समादिष्टश्च विबुधैर्दर्शय त्वमिति प्रभो।
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली।
अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः॥ 13-251-58(91420)
स च शेषो विचरते परया वै मुदा युतः।
अन्तर्वसति भोगेन परिरभ्य वसुन्धराम्॥ 13-251-59(91421)
य एव विष्णुः सोऽनन्तो भगवान्वसुधाधरः।
यो रामः स हृषीकेशो योच्युतः स धराधरः॥ 13-251-60(91422)
तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ।
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ॥ 13-251-61(91423)
एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः।
यद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः॥ ॥ 13-251-62(91424)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः॥ 251 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-251-43 अर्हितः पुष्पधूपादिनार्चितः। पूजितः वाचा च महीकृतः 7-251-47 अर्चितः मनसा ध्यातः॥ 7-251-55 तृणेंद्रः तालद्रुमः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|